|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.131. अध्यायः 131
Mahabharata - Drona Parva - Chapter Topics
भीमेन कर्णस्य पराजयः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-131-0x(4599)(50430)
वर्तमाने महाराज सङ्ग्रामे रोमहर्षणे।
व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः॥ 7-131-1(50431)
राधेयो भीममानर्च्छ युद्धाय भरतर्षभ।
यथा नागो वने नागं मत्तो मत्तमभिद्रवेत्॥ 7-131-2(50432)
`ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिन्दमौ।
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः'॥ 7-131-3(50433)
धृतराष्ट्र उवाच। 7-131-4x(4600)
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ।
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः॥ 7-131-4(50434)
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे।
कथं भूयः स राधेयो भीममागान्महारथः॥ 7-131-5(50435)
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे।
महारथसमाख्यातं पृथिव्यां प्रवरं रथम्॥ 7-131-6(50436)
भीष्मद्रोणावतिक्रम्य धर्मराजो युधिष्ठिरः।
नान्यतो भयमादत्त विना कर्णान्महारथात्॥ 7-131-7(50437)
भयाद्यस्य महाबाहो न शेते बहुलाः समाः।
चिन्तयन्नित्यशो वीर्यं राधेयस्य महात्मनः।
तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे॥ 7-131-8(50438)
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम्।
कथं कर्णं युधां श्रेष्ठं योधयामास पाण्डवः॥ 7-131-9(50439)
यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ।
कथं तावत्र युध्येतां महाबलपराक्रमौ॥ 7-131-10(50440)
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः।
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्॥ 7-131-11(50441)
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम्।
अयुध्यत कथं शूरः कर्णेन सह संयुगे॥ 7-131-12(50442)
आशास्ते च सदा सूतपुत्रे दुर्योधनो मम।
कर्णो जेष्यति सङ्ग्रामे समस्तान्पाण्डवानिति॥ 7-131-13(50443)
जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे।
स कथं भीमकर्माणं भीमसेनमयोधयत्॥ 7-131-14(50444)
यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः।
तं सूततनयं तात कथं भीमो ह्ययोधयत्॥ 7-131-15(50445)
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्।
स्मरमाणः कथं भीमो युयुधे सूतसूनुना॥ 7-131-16(50446)
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्।
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्॥ 7-131-17(50447)
यो जातः कुण्डलाभ्यां च कवचेन सहैव च।
तं सूतपुत्रं समरे भीमः कथमयोधयत्॥ 7-131-18(50448)
`अस्त्रहेतोः पुरा तात भार्गवं समपूजयत्।
तस्य प्रसादाद्ब्रह्मास्त्रं लब्धवांश्च भृगूत्तमात्'॥ 7-131-19(50449)
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय॥ 7-131-20(50450)
सञ्चय उवाच। 7-131-21x(4601)
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्।
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्चयौ॥ 7-131-21(50451)
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः।
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम्॥ 7-131-22(50452)
फुल्लता पङ्कजेनेव वक्त्रेण विहसन्बली।
आजुहाव रणे यान्तं भीममाधिरथिस्तदा॥ 7-131-23(50453)
कर्ण उवाच।
भीमाहितैस्तव रणः स्वप्नेऽपि न विभावितः। 7-131-24(50454)
तद्दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया॥
कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन। 7-131-25(50455)
तेन मामभितः स्थित्वा शरवर्षैरवाकिर॥ 7-131-26(50456)
सञ्जय उवाच।
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि।
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत्॥ 7-131-26x(4602)
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायशाः।
दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम्॥ 7-131-27(50457)
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्॥ 7-131-28(50458)
हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः।
तस्मै व्यसृजदुग्राणि विविधानि परन्तपः।
अमर्षात्पाण्डवः क्रुद्धः शरवर्षाणि मारिष॥ 7-131-29(50459)
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः।
सूतपुत्रोऽस्त्रमायाभिरग्रसत्परमास्त्रवित्॥ 7-131-30(50460)
स यथावन्महाबाहुर्विद्यया वै सुपूजितः।
आचार्यवन्महेष्वासः कर्णः पर्यचरद्बली॥ 7-131-31(50461)
युध्यमानं तु संरम्भाद्भीमसेनं हसन्निव।
अभ्यपद्यत कौन्तेयं कर्णो राजन्वृकोदरम्॥ 7-131-32(50462)
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे।
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः॥ 7-131-33(50463)
तं भीमसेनः सङ्ग्राप्तं वत्सदन्तैः स्तनान्तरे।
विव्याध बलवान्क्रुद्धस्तोत्रैरिव महाद्विपम्॥ 7-131-34(50464)
पुनश्च सूतपुत्रं तु स्वर्णपुङ्खैः शिलाशितैः।
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः॥ 7-131-35(50465)
कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः।
हयान्विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः॥ 7-131-36(50466)
ततो बाणमयं जलं भीमसेनरथं प्रति।
कर्णेन विहितं राजन्निमेषार्धाददृश्यत॥ 7-131-37(50467)
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा।
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः॥ 7-131-38(50468)
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम्।
क्रुद्धश्चाप्यहनत्पार्थं नाराचैर्मर्मभेदिभिः॥ 7-131-39(50469)
ततोऽचिन्त्य महाबाहुः कर्णकार्मुकनिःसृतान्।
समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः॥ 7-131-40(50470)
स कर्णचापप्रभवानिषूनाशीविषोपमान्।
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे॥ 7-131-41(50471)
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः।
विव्याध समरे कर्णं भीमसेनः प्रतापवान्॥ 7-131-42(50472)
अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत्।
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्॥ 7-131-43(50473)
मृदुपूर्वं तु राधेयो भीममाजावयोधयत्।
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन्॥ 7-131-44(50474)
तं भीमसेनो नामृष्यदवमानममर्षणः।
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रहा॥ 7-131-45(50475)
ते शराः प्रेषितास्तेन भीमसेनेन संयुगे।
निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः॥ 7-131-46(50476)
हेमपुङ्खा महावेगा भीमसेनधनुश्च्युताः।
प्राच्छादयंस्ते राधेयं शलभा इव पावकम्॥ 7-131-47(50477)
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः।
राजन्व्यसृजदुग्राणि शरवर्षाणि भारत॥ 7-131-48(50478)
तस्य तानशनिप्रख्यानिषून्समरशोभिनः।
चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः॥ 7-131-49(50479)
पुनश्च शरवर्षेण च्छादयामास भारत।
कर्णो वैकर्तनो युद्धे भीमसेनमरिन्दमः॥ 7-131-50(50480)
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः।
समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव॥ 7-131-51(50481)
हेमपुङ्खाञ्छिलाधौतान्कर्णचापच्युताञ्छरान्।
दधार समरे वीरः स्वरश्मीनिव रश्मिमान्'॥ 7-131-52(50482)
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत।
समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत्॥ 7-131-53(50483)
तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे।
नामृष्यत महाबाहुः क्रोधादुद्वृत्तलोचनः॥ 7-131-54(50484)
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्।
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः॥ 7-131-55(50485)
पुनरेव च विव्याध षङ्भिरष्टाभिरेव च।
मर्मस्वमरविक्रान्तः सूतपुत्रं तनुत्यजम्॥ 7-131-56(50486)
पुनरन्येन बाणेन भीमसेनः प्रतापवान्।
चिच्छेद कार्मुकं तूर्णं कर्णस्य प्रहसन्निव॥ 7-131-57(50487)
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः।
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि॥ 7-131-58(50488)
ते जग्मुर्धरणीमाशु कर्णं निर्भिद्य पत्रिणः।
यथा जलधरं भित्त्वा दिवाकरमरीचयः॥ 7-131-59(50489)
स वैक्लव्यं महत्प्राप्य च्छिन्नधन्वा शराहतः।
तथा पुरुषमानी स लज्जामुत्सृज्य भारत।
भीमसेनभयात्कर्णः प्रत्यपायाद्रथान्तरम्॥ ॥ 7-131-60(50490)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकत्रिंशदधिकशततमोऽध्यायः॥ 131 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-131-11 पूर्वमुद्योगे दर्शितमुद्भाविवं भ्रातूत्वं कुन्त्या वाक्यं च चतुर्णमवध्यत्वलक्षणं चानुस्मरन्नित्यन्वयः॥ 5-131-25 अभितः सम्मुखे॥ 5-131-131 एकत्रिंशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|